एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः
अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत्
यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत्
ऋमसंवत्सरौ तिष्यः शीतोष्णो ऽथ प्रियाप्रिये
जरयाभिपरीतस्य मृत्युना च विनाशितम्
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च
लोकयात्राविधातश्च दानधर्मफलागमे
इति सम्यङ् मनस्येते बहवः संति हेतवः
तेषां विमृशतामेव तत्सम्यगभिधावताम्
एवन्तुर् थैरनर्थैश्च दुःखिताः सर्वजन्तवः
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
कस्मै क्रियत कल्पेत निश्चयः को ऽत्र तत्त्वतः
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखो ऽब्रवीत्
अयं ह्यपि समाहारः शरीरेद्रियचेतसाम्
धातवः पञ्चधा तोयं खे वायुर्ज्योतिषो धरा
आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः
ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः
इन्द्रियाणीति पञ्चैते चित्तपूर्वङ्गमा गुणाः
सुखदुःखेति यामाहुरनदुःखासुखेति च
एते ह्यामरणात्पञ्च सद्गुणा ज्ञानसिद्धये
तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत्
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति
वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः