आत्मानं मन्यते मोहात्तदसम्यक् परं मतम्
अजरो ऽयममृत्युश्च राजासौ मन्यते यथा
किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम्
प्रत्यक्षो ह्यागमो भिन्नः कृतान्तो वा न किञ्चन
अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः
जातिस्मृतिरयस्कान्तः सूर्यकान्तोंऽबुभक्षणम्
मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः
अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते
तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि
यदा सरूपतश्चान्यो जातितः श्रुततोर्ऽथतः
एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः
अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत्
यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत्
ऋमसंवत्सरौ तिष्यः शीतोष्णो ऽथ प्रियाप्रिये
जरयाभिपरीतस्य मृत्युना च विनाशितम्
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च
लोकयात्राविधातश्च दानधर्मफलागमे
इति सम्यङ् मनस्येते बहवः संति हेतवः
तेषां विमृशतामेव तत्सम्यगभिधावताम्
एवन्तुर् थैरनर्थैश्च दुःखिताः सर्वजन्तवः
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
कस्मै क्रियत कल्पेत निश्चयः को ऽत्र तत्त्वतः
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखो ऽब्रवीत्
अयं ह्यपि समाहारः शरीरेद्रियचेतसाम्