संहरेत्क्रमशश्चैव सम्यक् तत्प्रशमिष्यति
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति
सुखमेष्यति तत्तस्य यदेवं संयतात्मनः
गच्छन्ति योगिनो ह्योवं निर्वाणं तु निरामयम्
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि
पुनः पप्रच्छ तत्त्वज्ञो नारदो ऽध्यात्मसत्कथाम्
न च मे जायते तृप्तिर्भूयोभूयो ऽपि शृण्वतः
तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम्
यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने
दर्शयन्तः पृथग्धर्मान्नानापाषञ्जवादिनः
आदमस्थः स भूयिष्टमात्मतत्त्वेन तुषअयति
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः
शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम्
स मन्ये तेन रूपेण विख्यापयति हि स्वयम्
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रकम्
पुरुषावस्थमव्यङ्क्तं परमार्थं न्यवेदयत्
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तमव्ययम्
ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी
ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम्
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम्
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः
उत्सृज्य शतमाचार्याम्पृष्टतो ऽनुजगाम तम्
अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम्
आगमात्परमस्तीति ब्रुवन्नपि पराजितः