तत्र पश्य कुशलान्न शोचते जायते यदि भयं पदं सदा
यज्ज्ञात्वा मुच्यते ब्रह्मन्नरस्त्रिविधतापतः
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः
जन्मदोषपारीक्षीणाः स्वभावे पर्यवस्थिताः
असंगान्य विधादीनि मनः शान्तिकराणि च
पिण्डीकृत्येन्द्रियग्राममासीनः काष्टवन्मुनिः
रूपं न चक्षुषा विन्द्याज्जिह्वया न रसांस्तथा
पञ्चवर्गप्रमाथीनि नेच्छेञ्चैतानि वीर्यवान्
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः
पूर्वध्यानपथे धीरः समादध्यान्मनस्त्वरा
एष ध्यानपथः पूर्वो भया समनुवर्णितः
स्फुरिष्यति समुद्रान्ता विद्युदम्बुधरे यथा
एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि
पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्
मुनेः समाधियुक्तस्य प्रथमं ध्यानमादितः
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्
सहसा वारिणा सिक्ता न यान्ति परिभावनाः
क्रमेण तु शनैर्गच्छत्सर्वं तत्परिभावनम्
संहरेत्क्रमशश्चैव सम्यक् तत्प्रशमिष्यति
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति
सुखमेष्यति तत्तस्य यदेवं संयतात्मनः
गच्छन्ति योगिनो ह्योवं निर्वाणं तु निरामयम्
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि
पुनः पप्रच्छ तत्त्वज्ञो नारदो ऽध्यात्मसत्कथाम्
न च मे जायते तृप्तिर्भूयोभूयो ऽपि शृण्वतः
तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम्
यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः