अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः
अथयन्मोहसंयुक्तमव्यक्त विषमं भवेत्
प्रहर्षः प्रीतिरानन्दः सुखं वा शान्तचित्तता
अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा
अपमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिते
दूषणं बहुधागामि प्रार्थनासंशयात्मकम्
सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः
मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा
पृथग्भूतौ प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः
इन्द्रियस्तु प्रदीपार्थं कुरुते बुद्धिसत्तमैः
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः
यथा वारिचरः पक्षी सलिलेन न लिप्यते
एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः
भावयुक्त्या प्रयुक्तस्तु स नित्यं सृजते गुणान्
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
इतीमं हृदयग्रथिं बुद्धिचिन्तामयं दृढम्
मलिनाः प्राण्नुयुः शुद्धिं यथा पूर्णां नदीं नराः
महानद्या हि पारज्ञस्तप्यते न तरन्यथा
एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम्
अवेक्ष्य च शनैर्बुद्ध्या लभते च शमं ततः
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः
तत्र तत्र विसृष्टेषु दुर्वापेष्वकृतात्माभिः
विज्ञाय तद्धि मन्यन्ते कतकृत्या मनीषिणः
नहि गतिरधिकास्ति कस्यचित्सति हि गुणेप्रवदत्यतुल्यताम्
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः