श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता
चक्षुरालोकनायैव संशयं कुरुते मनः
उर्द्धं पादतलाभ्यां यदवाक्चोदक्च पश्यति
पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्त्रशः
एतां बुद्धिं नरो बुद्धा भूतानागतिं गतिम्
गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेन्द्रियाण्यपि
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
येन पश्यति तञ्चक्षुः शृणोति श्रोत्रमुच्यते
त्वचा स्पर्शयति स्पर्शं बुद्धिर्विक्रियते सकृत्
अधिष्टानात्तु बुद्धेर्हि पृथगर्थानि पञ्चधा
पुरुषे तिष्टती बुद्धिस्त्रिषु भावेषु वर्तते
न सुखेन न दुःखेन कदाचिदपि वर्तते
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते
अतिभावगता बुद्धिर्भावैर्मनसि वर्तते
इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा सदा
ये ये च भावा लोके ऽस्मिन्सर्वे प्येतेषु वै त्रिषु
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
त्रिविश्वावेदनाश्चैव सर्वसत्त्वेषु दृश्यते
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तव यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः
अथयन्मोहसंयुक्तमव्यक्त विषमं भवेत्
प्रहर्षः प्रीतिरानन्दः सुखं वा शान्तचित्तता
अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा
अपमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिते
दूषणं बहुधागामि प्रार्थनासंशयात्मकम्
सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः
मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा
पृथग्भूतौ प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः