एतान्संसेवते यस्तु तपस्तस्य प्रहीयते
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः
शुभैः शुभमवाप्नोति तथाशुभमथान्यथा
इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः
इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले
इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम्
पन्थानं सर्वालोकानां विजानन्ति मनीषिणः
धर्माधर्मौं हि लोकस्य यो वै वेत्ति स बुद्धिमान्
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन
तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम्
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः
इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत
श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता
चक्षुरालोकनायैव संशयं कुरुते मनः
उर्द्धं पादतलाभ्यां यदवाक्चोदक्च पश्यति
पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्त्रशः
एतां बुद्धिं नरो बुद्धा भूतानागतिं गतिम्
गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेन्द्रियाण्यपि
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
येन पश्यति तञ्चक्षुः शृणोति श्रोत्रमुच्यते
त्वचा स्पर्शयति स्पर्शं बुद्धिर्विक्रियते सकृत्
अधिष्टानात्तु बुद्धेर्हि पृथगर्थानि पञ्चधा