तं दृष्ट्वा परमं ज्योतिराप्रोति मनुजोत्तमः
सत्पद्वीपासाब्धिशैला भूः परिक्रमितामुना
शिवस्य वाच्युतस्यापि तासु संनिहितो हरिः
पुराणपठनं यत्र यत्र संनिहितो हरिः
तद्भक्तिं कुर्वतां नॄणां गङ्गास्त्रानां दिने दिने
तद्वक्तरि च या भक्तिः सा प्रयागोपमा स्मृता
संसारसागरे मग्नं स हरिः परिकीर्तितः
नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परम्
यथा पयोधिः सिन्धूनां तथा गङ्गा परा स्मृता
नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमा नदी
भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयन्ततः
एतयोर्भक्तिहीनो यस्तं विद्यात्पतितं द्विज
उभे ते सर्वपापानां नाशकारणतां गते
विष्णुशक्तियुते ते द्वे समकामप्रसिद्धेदे
सर्वलोकानुग्रहार्थं प्रवर्तेते महोत्तमे
तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्त्विकी
यत्र स्त्राता नरा यान्ति विष्णोः पदमनुत्तमम्
गङ्गास्त्रानपराणां तु वाञ्छितार्थफलप्रदः
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम्
विसृज्यराक्षसं भावं संप्रात्पः परमं पदम्
सगरः को मुनिश्रेष्ठ तन्म्रमाख्यातुमर्हसि
गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम्
बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः
स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशांपतिः
अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः
मेने कृतार्थमात्मानमन्यातपनिवारणम्
भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने
अकृष्टपच्या पृथिवी फलपुष्पसमन्विता
आधर्मनिरतापाये प्रजा धर्मेण रक्षिताः
अहॄङ्कारो महाञ्जज्ञे सासूयो लोपहेतुकः