पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः
काले मृत्युः प्रबवति स्पृशन्ति व्याधयो न च
नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम्
सुखिता दुःखिताः केचिन्निर्धना धनिनो परे
लोभश्चार्थकृतो तॄणां येन मुह्यन्त्यपण्डिताः
सोपधे निकृतिः स्तेयं परिवादो ऽभ्यसूयता
एतान्संसेवते यस्तु तपस्तस्य प्रहीयते
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः
शुभैः शुभमवाप्नोति तथाशुभमथान्यथा
इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः
इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले
इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम्
पन्थानं सर्वालोकानां विजानन्ति मनीषिणः
धर्माधर्मौं हि लोकस्य यो वै वेत्ति स बुद्धिमान्
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन
तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम्
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः
इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत