हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च
यादृशं दीयते दानं तादृशं फलमश्नुते
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति
तेषां स्वर्गपलावाप्तिर्यो ऽन्यथा स विमुह्यते
तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारो ऽभिनिर्द्दिष्टाः
तत्र गुरुकुलवासमेव प्रथममाश्रममाहरन्ति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितान्तरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात्
इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति
समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते
धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत्
तद्धि सर्वाश्रमणां मूलमुदाहरन्ति गुरुकुलनिवासिनः परिव्राजका ये ऽन्ये संकल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यन्तरा च भिक्षाबलिसंविभागाः प्रवर्तन्ते
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः स्वाध्यायप्रसंगिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति
तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति
परितापोदपघातश्च पारुष्यं चात्र गर्हितम्
अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः
अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात्
त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः
वानप्रस्थाः खल्वपि धर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्त्रवणानि स्वभक्तेष्वरण्येषु मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यन्ते अनुसंचरन्ति
समित्कुशकुसुमापहारसंमार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहॄन्ते
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जायान्
समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयः
अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजाण्डजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरन्तो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदंभपरिवादाभिमाननिर्वृत्तहिंसा इति
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्
विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिता ग्निना संव्रजते हि सोकान्
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति