निवेदादेव निर्वाणं न च किञ्चिद्विच्चितयेत्
शौचे तु सततं युक्तः सदाचारसमन्वितः
सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा
अनृतं तमसो रूपं तमसा नीयते ह्यधः
सुदुष्प्रकाश इत्याहुर्नरकं तम एव च
तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत्
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते
तथा तमोभिभूतानां भूतानां नश्यते सुखम्
वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति
न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम्
तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति
अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन सममनयत्
तस्माद्भूमौ न तु महात्मभिरञ्जयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति
नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात्सुखमवाप्यते ऽन्यथा दुःखमिति
अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवन्ति विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः
इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च
यादृशं दीयते दानं तादृशं फलमश्नुते
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति
तेषां स्वर्गपलावाप्तिर्यो ऽन्यथा स विमुह्यते
तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारो ऽभिनिर्द्दिष्टाः
तत्र गुरुकुलवासमेव प्रथममाश्रममाहरन्ति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितान्तरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात्
इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति
समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते