कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति
ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च
एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः
नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात्
विद्यां मानापमानाभघ्यामात्मानं तु प्रमादतः
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेन्द्रियः
तपोनित्येन दान्तेन मुनिना संयतात्ममना
इन्द्रियैर्गृह्यते यद्यत्तत्तव्द्यक्तमिति स्थितिः
अविश्रंभेण मन्तव्यं विश्रंभे धारयेन्मनः
निवेदादेव निर्वाणं न च किञ्चिद्विच्चितयेत्
शौचे तु सततं युक्तः सदाचारसमन्वितः
सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा
अनृतं तमसो रूपं तमसा नीयते ह्यधः
सुदुष्प्रकाश इत्याहुर्नरकं तम एव च
तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत्
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते
तथा तमोभिभूतानां भूतानां नश्यते सुखम्