सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम्
तदा शान्ते शरीराग्नौ देहत्यागेन नश्यति
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्
तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे
तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम्
अतः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त
जीवस्तु देहान्तरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः
दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये
आत्मतेजो ऽभिनिर् वृत्तान्भास्कराग्निसमप्रभान्
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते
त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः
ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम्
त्यक्तस्वकर्मरक्ताङ्गास्ते द्विजाः क्षत्रतां गताः
स्वधर्ंमन्नानुतिष्टन्ति ते द्विजा वैश्यतां गताः
कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति
ब्रह्म चैव पुरा सृष्टं येन जानन्ति तद्विदः
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः