समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा
इन्धनस्योपयोगान्ते स वाग्निर्नोपलभ्यते
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्
समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्
तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम्
जगमानां हि सर्वेषां स्थावराणां तथैव च
तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम्
अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणः
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मे ऽनघ
शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम्
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते
शरीरे मानसे दुःख कस्तां वेदयते रुजम्
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति
न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः
इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः
स वेत्ति गन्धांश्च रसाञ्छुतीश्च स्पर्शं च रूपं च गुणांश्च ये ऽल्ये
सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम्
तदा शान्ते शरीराग्नौ देहत्यागेन नश्यति
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्
तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे
तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम्
अतः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त
जीवस्तु देहान्तरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः
दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते