जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन्
तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः
श्वसित्याभाषते चैव ततो जीवो निरर्थकः
अग्निर्जरयते चैतत्तदा जीवो निरर्थकः
वायुरेव जहात्येनमूष्मभावश्च नश्यति
वायुमञ्जलवत्पश्येद्गच्छेत्सह मरुद्गुणैः
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम्
क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा
येषामन्यतराभावाञ्चतुर्णां नास्ति संशयः
नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात्
पीडिते ऽन्यतरे ह्येषां संघातो याति पञ्चताम्
किं खेदयति वा जीवः किं शृणोति ब्रवीति च
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति
इहैव विलयं यान्ति कुतस्तेषां समागमः
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः
जीवन्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति
मृताः प्रणश्यन्ति बीजाद्बीजं प्रणश्यति
त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम्
पुनराहु मुनिश्रेष्ठ तत्संदेहनिवृत्तये
याति देहान्तरं प्राणी शरीरं तु विशीर्यते
समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा
इन्धनस्योपयोगान्ते स वाग्निर्नोपलभ्यते
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्
समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्
तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम्
जगमानां हि सर्वेषां स्थावराणां तथैव च
तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम्