निर्हारी संहतः स्निग्धो रुक्षो विशद एव च
ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु
मधुरो लवणस्तिक्तः कषायो ऽम्लः कटुस्तथा
शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते
ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रो ऽणुवृत्तवान्
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्
षड्जो ऋषभगान्धारौ मध्यमोधैवतस्तथा
एष सप्तविधः प्रोक्तो गुण आकाशसंभवः
मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः
तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरो ऽपि च
एवमेकादशविधो वायव्यो गुण उच्यते
अव्याहतैश्चेतयते नवेति विषमा गतिः
आपो ऽग्निर्मारुश्चैव नित्यं जाग्रति देहिषु
पार्थिवं धातुमासाद्य यथा चेष्टयते बली
प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते
मनो बुद्धिरहॄङ्कारो भूतानि विषयश्च सः
पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः
वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते
उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते
रसान्वारु दोषांश्च वर्तयन्नति चेष्टते
समन्वितस्त्वधिष्टानं सम्यक् पचति पावकः
रेतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम्
ऊष्मा चागिरीति ज्ञेयो यो ऽन्नं पचति देहिनाम्
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः
वहॄन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः