जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते
आहारपरिणामाञ्च स्नहो वृद्धिश्च जायते
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते
इत्येतदिह संघातं शरीरे पृथिवीमये
अग्निर्जनयते यञ्च पञ्चाग्नेयाः शरीरिणः
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा
प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा
इत्येते वायवः पञ्च वेष्टयन्तीहदेहिनम्
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्
निर्हारी संहतः स्निग्धो रुक्षो विशद एव च
ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु
मधुरो लवणस्तिक्तः कषायो ऽम्लः कटुस्तथा
शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते
ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रो ऽणुवृत्तवान्
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्
षड्जो ऋषभगान्धारौ मध्यमोधैवतस्तथा
एष सप्तविधः प्रोक्तो गुण आकाशसंभवः
मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः
तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरो ऽपि च
एवमेकादशविधो वायव्यो गुण उच्यते
अव्याहतैश्चेतयते नवेति विषमा गतिः
आपो ऽग्निर्मारुश्चैव नित्यं जाग्रति देहिषु
पार्थिवं धातुमासाद्य यथा चेष्टयते बली
प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते
मनो बुद्धिरहॄङ्कारो भूतानि विषयश्च सः
पृष्टतस्तु समानेन स्वां स्वां गतिमुपाश्रितः