संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्
यत्प्राणाः सर्वभूतानां वर्द्धन्ते येन च प्रजाः
सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम्
त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः
दिव्या सरस्वती तत्र संबभूव नभस्तलात्
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ
तस्माञ्च सलिलोत्पीडादुदतिष्टत मारुतः
तञ्चाभसा पूर्यमाणं सशब्दं कुरुते ऽनिलः
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति
प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः
तदग्निवायुसंपर्काद्धनत्वमुपपद्यते
स संघातत्वमापन्नो भूमित्वमनुगच्छति
भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः
पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते
अतस्तेषां महाभूतशब्दो ऽयमुपपद्यते
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्
श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः
न च स्पर्शं हि जानन्ति ते कथं पञ्च धातवः
आकाशस्याप्रमेयत्वादृक्षाणां नास्ति भौतिकम्
तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः
नह्यदृष्टश्च मार्गो ऽस्ति तस्मात्पश्यन्ति पादपाः
अरोगाः पुष्पिताः संति तस्माज्जिघ्रन्ति पादपाः