आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदशनात्
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा
सिद्धानां देवतानां च परिमीता यदा गतिः
नामधेयानुरुपस्य मानसस्य महात्मनः
को ऽन्यस्तद्वेदितुं शक्यो यो ऽपि स्यात्तद्विधो ऽपरः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते
तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः
मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्
यत्प्राणाः सर्वभूतानां वर्द्धन्ते येन च प्रजाः
सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम्
त्यक्ताहाराः स्पर्द्धमाना दिव्यं विर्षशतं द्विजाः
दिव्या सरस्वती तत्र संबभूव नभस्तलात्
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ
तस्माञ्च सलिलोत्पीडादुदतिष्टत मारुतः
तञ्चाभसा पूर्यमाणं सशब्दं कुरुते ऽनिलः
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति
प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः
तदग्निवायुसंपर्काद्धनत्वमुपपद्यते
स संघातत्वमापन्नो भूमित्वमनुगच्छति
भूमिर्यो निरियं ज्ञेया यस्याः सर्वं प्रसूयते
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः
पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते
अतस्तेषां महाभूतशब्दो ऽयमुपपद्यते
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्