एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः
अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षयो ऽव्ययः
सो ऽमृजत्प्रथमं देवो महान्तं नाम नामतः
आकाशादभवद्वारि सलिलादग्निमारुतौ
ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा
अहॄङ्कार इति ख्यातः सर्वभूतात्मभूतकृत्
शैलास्तस्यास्थिसंधास्तु मेदो मसिं च मेदिनी
पवनश्चैव निश्वासस्तेजो ऽग्निर्निम्नगाः शिराः
नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः
स एष भगवान्विष्णुरनन्त इति विश्रुतः
ततः समभवद्विश्वं पृष्टो ऽहं यदिह त्वया
कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः
रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते
तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः
दुर्गमत्वादनन्तत्वादिति मे वद मानद
निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि
तमसोंऽते जलं प्राहुर्जलस्यान्ते ऽग्निरेव च
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि
आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदशनात्
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा
सिद्धानां देवतानां च परिमीता यदा गतिः
नामधेयानुरुपस्य मानसस्य महात्मनः
को ऽन्यस्तद्वेदितुं शक्यो यो ऽपि स्यात्तद्विधो ऽपरः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते
तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः
मेरुमध्ये स्थितो ब्रह्मा तद्वहिर्द्विजसत्तम