सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम्
अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान्
भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते
भृगुमहर्षिमासीनं भरद्वाजो ऽन्वपृच्छत
कथं मुक्तिश्च संसाराज्जायते तस्य मानद
सेव्यसेवकभावेन वर्तेते इति तौ सदा
लोकानां रमणः सो ऽयं निर्गुणश्च निरञ्जनः
कथमेनं परात्मानं कालशक्तिदुरन्वयम्
जीवो जीवत्वमुल्लङ्घ्य कथं ब्रह्म समन्वयात्
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्
मानसो नाम यः पूर्वो विश्रुतो वे महर्षिभिः
अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षयो ऽव्ययः
सो ऽमृजत्प्रथमं देवो महान्तं नाम नामतः
आकाशादभवद्वारि सलिलादग्निमारुतौ
ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा
अहॄङ्कार इति ख्यातः सर्वभूतात्मभूतकृत्
शैलास्तस्यास्थिसंधास्तु मेदो मसिं च मेदिनी
पवनश्चैव निश्वासस्तेजो ऽग्निर्निम्नगाः शिराः
नभश्चोर्ध्वशिरस्तस्य क्षितिः पदौ भुजौ दिशः
स एष भगवान्विष्णुरनन्त इति विश्रुतः
ततः समभवद्विश्वं पृष्टो ऽहं यदिह त्वया
कान्यत्र परिमाणानि संशयं छिन्धि तत्त्वतः
रम्यं नानाश्रयाकीर्णं यस्यां तो नाधिगम्यते
तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः
दुर्गमत्वादनन्तत्वादिति मे वद मानद
निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि
तमसोंऽते जलं प्राहुर्जलस्यान्ते ऽग्निरेव च
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि