निष्कामा वा सकामा वा न कलिर्बाधते च तान्
त एव शिवतुल्याश्च नात्र कार्या विचारणा
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति
घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते
हरिस्मरणमेवात्र संपूर्णत्वविधायकम्
इतीरयन्ति ये नित्यं नहि तान्बाधते कलिः
इति जल्पन्ति ये वापि कलिस्तान्नापि बाधते
इत्थं वदन्ति ये विप्र ते कृतार्था न संशयः
इति वाप्युञ्चरन्तीह न च तेषां कलेर्भयम्
घोरे कलियुगे विप्र हरिभक्तस्तु दुर्लभा
अधर्मनिरता नैव नरकार्हा हरिस्मृतेः
मनः शुद्धिविहीनानां हरिनाम्नैव निष्कृतिः
यथाप्रेरितमेतेन तथैव कुरुतें द्विज
समर्पयेन्महाविष्णौ नारायणपरायणः
संपूर्णतां प्रयान्त्येव हरिस्मरणमात्रतः
अतो ऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम्
ते सुभाग्या महात्मानः सत्संगर हिता अपि
सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विज
त्रिदर्शेरपि ते पूज्याः किमन्यैर्बहुभाषितैः
हरिनामपरान्मर्त्यान्न कलिर्बाधर्तक्वचित्
कलौ नास्त्येव नास्त्येव गतिरन्यथा
परां निर्वृत्तिमापन्नः पुनरेतदुवाच ह
प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम्
यः स्मरेत्पुण्डरीकाक्षं सर्वपापविनाशनम्
त्वयोक्तं तत्प्रतीये ऽहं कथं दृष्टान्तमन्तरा
तदाख्याहि यथा चित्तं सीदत्स्थितिमवाप्नुयात्
सनकः प्रत्युवाचेदं स्मरन्नारायणं परम्
वेदान्तशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवन्द्यः
सनन्दनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे
प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन