अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः
वाञ्च्छत्यपि च यो ह्येवं सो ऽपि विष्णुपदं व्रजेत्
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः
यतो वै नरकं यान्ति गङ्गानात्रि स्थिते ऽपि हि
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि
मेषतौलिमृगाकर्षु पावयत्यखिलं जगत्
तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा
एवमादिषु तीर्थेषु गङ्गा मुख्यतमा स्मृता
तथेयं व्यापिनी गङ्गा सर्वपापप्रणाशिनी
पुनाति पावनीत्येषा न कथं सेव्यते नृभिः
वाराणसीति विख्यातं सर्वदेवनिषेवितम्
इह श्रुतिमतां पुंसां काशी याभ्यां श्रुतासकृत्
निर्धूतसर्वपापास्ते शिवलोकं व्रजन्ति वै
बहुपातकपूर्णो ऽपि पदं गच्छत्यनामयम्
सो ऽपि पापविनिर्मुक्तः शैवं पदमवान्पुयात्
पृथिव्यामेकराडू भूत्वा काशीं प्राप्य च मुक्तिभाक्
नामापि गृह्णातां काश्याश्चतुर्वर्गो न दूरतः
यस्य दर्शनमात्रेण नरा यान्ति परां गतिम्
पुनाति स्त्रानपानाद्यैर्नयन्तीन्द्रपुरं जगत्
लिङ्गरुपीं कथं तस्या महिमा परिकीर्त्यते
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः
युगान्ते निगदन्त्येतद्रुद्ररुपधरो हरिः
ब्रह्मरुपेण सृजति प्रान्तेः हयेतत्रयं हरः
भेदं करोति सो ऽभ्येति नरकं भृशदारुणम्
स याति परंमानन्दं शास्त्राणामेष विष्वयः
नित्यं संनिहितस्तत्र लिङ्गरुपी जनार्दनः