घोरे कलियुगे विप्र पञ्चवर्षा प्रसूयते
स्वकर्मत्यागिनः सर्वे कृतघ्नाभिन्नवृत्तयः
परावमाननिरताः प्रहृष्टाः परवेश्मनि
निदां कुर्वन्ति सततं पितृमातृसुतेषु च
धनविद्यावयोमत्ताः सर्वदुःखपरायणाः
प्रपुष्यन्ति वृथैवामी न विचार्य च दुष्कृतम्
धर्मकार्ये रतं चैव वृथाविश्रंभिणो जनाः
शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः
न भार्या न पतिश्चैव भवितारो ऽत्र संकरे
रस विक्रयिणश्चापि भविष्यन्ति द्विजातयः
अपण्यविक्रयरता अगम्यागामिनस्तथा
शूद्रवृत्त्यैव जीवन्ति नरकार्हा द्विजा मुने
भविष्यन्ति कलौ मर्त्यासर्वे क्षुद्भयकातराः
आत्मानं तारयिष्यन्ति अनावृष्ट्यातिदुखिताः
कलौ सर्वे भविष्यन्ति स्वल्पभाग्या बहुप्रजाः
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः
निधाय हृद्यकर्मणि प्रेरयन्ति वचः शुभम्
भिक्षवश्चाव मित्रादिस्नेहसंबन्धयन्त्रिताः
अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति भिक्षवः
कुर्वन्त्यो गुरुभर्तृआणामाज्ञामुल्लङ्घयन्ति च
यदा द्विजा भविष्यन्ति तदा वृद्धिं कलिर्व्रजेत्
तदैव तु कलेर्वृद्धिरनुमेया विचक्षणैः
सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत्
हरिभक्तिपरानेष न कलिर्बाधते क्वचित्
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे
द्वापरे यञ्च मासेन ह्यहोरात्रेण तत्कलौ
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्
कुर्वन्ति हरिपूजां वा न कलिर्बाधते च तान्