हरिस्तु रक्तातां याति किञ्चित्क्लेशान्विता जनाः
सत्यव्रता ध्यानपराः सदाध्यानपरायणाः
हरिः पीतत्वमायाति वेदश्चापि विभज्यते
ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः
केचिद्धनादिकामाश्च केचित्कल्मषचेतसः
अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा
केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते
धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते
यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च
नरं धर्मरतं दृष्ट्वा सर्वे ऽसूयां प्रकुर्वते
उपद्रवा भविष्यन्ति ह्यधर्मस्य प्रवतनात्
प्रजाश्चाल्पायुषः सर्वा भविष्यन्ति कलौ युगे
कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः
किमाहाराः किमाचाराः भविष्यन्ति कलौ युगे
कलिधर्मान्प्रवक्ष्यामि विस्तरेण यथातथम्
तस्मात्कलिर्महाघोरः सर्वपातकसंकरः
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः
वृथाहॄङ्कारदुष्टाश्च सत्यहीनाश्च पण्डिताः
अधर्मलोलुपाः सर्वले तथा वैतंहिका नराः
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विज
व्यात्क्रमेण प्रजाः सर्वा म्नियन्ते पापतत्पराः
कामक्रोधपरा मूढा वृथासंतापपीडिताः
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा
पीडयन्ति प्रजाश्चैव करैरत्यर्थयोजितैः
धर्मस्त्रीष्वपि गच्छन्ति पतयो जारधर्मिणः
परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः
घोरे कलियुगे विप्र सर्वे पापरता जनाः
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः
वेश्यालावंयशीलेषु स्पृहा कुर्वन्ति योषितः
वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः