ते वा पुंनति च जगन्ति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः
तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज
हरिरेव ततः पूज्यो यतश्चेतन्यकारणम्
पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति
तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति
स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम
संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते
इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम्
युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान्
तथा विनासमायाति धर्ंम एव महीतले
दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम
कालतो वेदितव्यानि इत्युक्तं तत्त्वा दर्शिभिः
ततश्च द्वापरं प्राहुः कलिमन्त्यं विदुः क्रमात्
नासन्कृतयुगे विप्र सर्वे देवसमाः स्मृताः
वेदानां च विभागश्च न युगे कृतसंज्ञके
सदा नारायणपरास्तपोध्यानपरायणाः
धर्मसाधनचित्ताश्च गतासूया अदांभिकाः
वेदाध्ययनसंपन्नाः सर्वशास्त्रविचक्षणाः
अकामफलसंयोगाः प्रयान्ति परमां गतिम्
त्रेताधर्मान्प्रवक्ष्यामि शृणुष्व सुसमाहितः
हरिस्तु रक्तातां याति किञ्चित्क्लेशान्विता जनाः
सत्यव्रता ध्यानपराः सदाध्यानपरायणाः
हरिः पीतत्वमायाति वेदश्चापि विभज्यते
ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः
केचिद्धनादिकामाश्च केचित्कल्मषचेतसः
अधर्मस्य प्रभावेण क्षीयन्ते च प्रजास्तथा
केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते
धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते
यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च
नरं धर्मरतं दृष्ट्वा सर्वे ऽसूयां प्रकुर्वते