क्रभुवनामा च देवेन्द्रो हरिनाभास्तथा सुराः
दिवस्पतिर्महावीर्यस्तेषामिन्द्रः प्रकीर्तितः
एवं ते मनवः प्रोक्ता इन्द्रा देवाश्च तत्त्वतः
एकस्मिन्ब्रह्मदिवसे स्वाधिकारं प्रभुञ्जते
कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः
तेषां संख्या न संख्यातु शक्तो ऽस्म्यद्य द्विजोत्तम
चत्वारो मनवो ऽतीता मम श्रीश्चातिविस्तरा
ततः परं गमिष्यामि कर्मभूमिं शृणुष्व मे
वदतां शृण्वतां चैव सर्वपापप्रणाशनम्
स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः
पतितो व्याधशस्त्रेण सायं विष्णोर्गृहाङ्गणे
जग्राह मां स्ववक्रेण श्वभिरन्यैश्चरन्द्रुतः
गतः प्रदक्षिणा कारं विष्णोस्तन्मन्दिरं प्रभो
मम चापि शुनश्चापि दत्तावन्परमं पदम्
संप्राप्तं विबुधश्रेष्ठ किं पुनः सम्यगर्चनात्
मनसा प्रीतिमापन्नो हरिपूजा रतो ऽभवत्
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः
कथं भवत्युग्रभवस्य बन्धस्तत्सङ्गलुब्धा यदि मुक्तिभाजः
ते सर्वपापनिकरैः परितो विमुक्ता विष्णोः पदं शुभतरं प्रतियान्ति हृष्टाः
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति
ते वा पुंनति च जगन्ति शरीरसंगात् संभाषणादपि ततो हरिरेव पूज्यः
तत्रैव सकलं भद्रं यथा निम्ने जलं द्विज
हरिरेव ततः पूज्यो यतश्चेतन्यकारणम्
पृज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति
तेषां विष्णुः प्रसन्नात्मा सर्वान्कामान् प्रयच्छति
स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम
संकोचविस्तराभ्यां तु किमन्यत्कथयामि ते
इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम्
युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान्
तथा विनासमायाति धर्ंम एव महीतले