तदाख्याहि समायात एतत्प्रष्टुं सयाजकः
तद्वदस्वाधिकः कस्मादस्मद्भ्यो ऽपि दिवि स्थितः
दानेन वा तपोभिर्वा कथमेतादृशः प्रभो
प्रोवाच विनयाविष्टः पूर्ववृत्तं यथाविधि
एकस्मिन् दिवसे शक्र मनवश्च चतुर्दश
इन्द्राणां चैव सर्वेषां मन्वादीनां च वासव
तेषां नामानि वक्ष्यामि शृणुष्व सुसमाहितः
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा
नवमो दक्षसावर्णिः सर्वदेवहिते रतः
ततस्तु रुद्रसावर्णी रोचमानस्ततः स्मृतः
देवानिन्द्रांश्च वक्ष्यामि शृणुष्व विबुधर्षभ
शचीपतिः समाख्यातस्तेषामिन्द्रो महापतिः
विपश्चिन्नाम देवेन्द्रं सर्वसंपत्समन्वितः
तेषामिन्द्रः सुशान्तिश्च तृतीये परिकीर्तितः
विभानामा देवपतिः पञ्चमः परिकीर्तितः
आर्याद्या विबुधाः प्रोक्तास्तेषा मिन्द्रो मनोजवः
इन्द्रः पुरन्दरः प्रोक्तः सर्वकामसमन्वितः
विष्णुपूजाप्रभावेण तेषामिन्द्रो बलिः स्मृतः
सुवासनाद्या विबुधा दशमे परिकीर्तिताः
विहॄङ्गॄमाद्या देवाश्च तेषामिन्द्रो वृषः स्मृतः
क्रभुवनामा च देवेन्द्रो हरिनाभास्तथा सुराः
दिवस्पतिर्महावीर्यस्तेषामिन्द्रः प्रकीर्तितः
एवं ते मनवः प्रोक्ता इन्द्रा देवाश्च तत्त्वतः
एकस्मिन्ब्रह्मदिवसे स्वाधिकारं प्रभुञ्जते
कर्त्तारो बहवः संति तत्संख्यां वेत्ति कोविदः
तेषां संख्या न संख्यातु शक्तो ऽस्म्यद्य द्विजोत्तम
चत्वारो मनवो ऽतीता मम श्रीश्चातिविस्तरा
ततः परं गमिष्यामि कर्मभूमिं शृणुष्व मे
वदतां शृण्वतां चैव सर्वपापप्रणाशनम्
स्थितश्च भूमिभागे वै अमेध्यामिषभोजनः