सत्संगस्तुलसीसेबा हरिभक्तिश्च दुर्लभा
अर्चयेद्धि जगन्नाथं सारमेतद्द्विजोत्तम
हरिभक्तिपरो भूयादेतदेव रसायनम्
आसन्नमेव नगरं कृतान्तस्य हि दृश्यते
समर्चयस्व विप्रेन्द्र यदि भुक्तिमभीप्ससि
ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः
येर्ऽचयन्ति महाविष्णुं प्रणतार्तिप्रणाशनम्
त्रिःसप्तकुलसंयुक्ता स्ते यान्ति हरिमन्दिरम्
पानीयं वा फलं वापि स एव भगवत्प्रियः
ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम्
त एव भुवनं सर्वं पुंनति स्वाङ्घ्रिपांशुना
तत्रैव सर्वदेवाश्च तिष्टन्ति श्रीहरिस्तथा
तत्र सर्वाणि श्रेयांसि वर्द्धत्यहरहर्द्विज
न बाधन्ते ग्रहास्तत्र भूतवेताल कादयः
यतः संनिहितस्तत्र भगवान्मधुसूदनः
श्मशानसदृशं विद्यात्तद गृहं शुभवार्जितम् पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज
सांगा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितम्
ते ऽपि यान्ति परं स्थानं सर्वकर्मनिबर्हणम्
यां शृण्वतां कीर्तयतां सद्यः पापक्षयो भवेत्
संवादः सुमहानासीत्तं वक्ष्यामि निशामय
अप्सरोगणसंकीर्णो बृहस्पतिमभाषत
अतीतब्रह्मणः कल्पे सृष्टिः कीदृग्विधा प्रभो
तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि
वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभाति मे
यो विजानाति तं ते ऽद्य कथयामि निशामय
भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः
एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः
देवतागणसंकीर्णः सुधर्मनिलयं ययौ
दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम्
मनसा विस्मयाविष्टः प्रोवाच विनयान्वितः