रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः
पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी
दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितो ऽभवत्
ममार नर्मदातीरे श्वासकासप्रपीडितः
कामचारपरा सा तु परित्यक्ता च बन्धुभिः
महापापरतो नित्यं ब्रह्मद्वेषपरायणः
गावश्च विप्रा बहवो निहता मृगपक्षिणः
मद्यपानरतो नित्यं बहुशो मार्गरोधकृत्
कदाचित्कामसंतप्तो गन्तु कामो रतिं स्त्रियः
निशि रामोपभोगार्थं शयितं तत्र कामिना
यावन्त्यः पांशुकणिकास्तत्र संमार्जिता द्विज
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम
एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः
आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः
किरीटकुण्डलधरा वनमालाविभूषिताः
दिव्यं विमानमारुह्य सर्वभोगसमन्वितम्
तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम
ततश्च भूमिभागेषु देवयोगेषु वै क्रमात्
तेनैव मे ऽच्युता संपत्तथा राज्यमकण्टकम्
भक्त्या कुर्वन्ति ये संतस्तेषां पुण्यं न वेद्यहम्
यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम्
भक्तिभद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात्
अनन्ततुष्टिमापन्नो हरिपूजापरो ऽभवत्
ज्ञानतो ऽज्ञानतो वापि पूजकानां विमुक्तिदः
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः
कायः संनिहितापायो धानादीनां किमुच्यते
तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने
सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा
सर्वभूतदया वापि सुलभा यस्य कस्य चित्