परिप्रणामनिरतो हरिभक्तजनप्रियः
जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः
अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः
विष्णुभक्तिमतां पुंसां श्रेष्ठो ऽसि भरतर्षभ
तन्मे वद महाभाग किं त्वया विदितं फलम्
संयुक्तो ऽसि सदा भद्रयद्विष्णोर्गृहमार्जने
तथापि किं महाभाग एतयोः सततोद्यतः
तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत्
विनयावनतो भूत्वा प्रोवाचेजं कृताञ्जलिः
जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम्
रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः
पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी
दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितो ऽभवत्
ममार नर्मदातीरे श्वासकासप्रपीडितः
कामचारपरा सा तु परित्यक्ता च बन्धुभिः
महापापरतो नित्यं ब्रह्मद्वेषपरायणः
गावश्च विप्रा बहवो निहता मृगपक्षिणः
मद्यपानरतो नित्यं बहुशो मार्गरोधकृत्
कदाचित्कामसंतप्तो गन्तु कामो रतिं स्त्रियः
निशि रामोपभोगार्थं शयितं तत्र कामिना
यावन्त्यः पांशुकणिकास्तत्र संमार्जिता द्विज
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम
एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः
आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः
किरीटकुण्डलधरा वनमालाविभूषिताः
दिव्यं विमानमारुह्य सर्वभोगसमन्वितम्
तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम
ततश्च भूमिभागेषु देवयोगेषु वै क्रमात्
तेनैव मे ऽच्युता संपत्तथा राज्यमकण्टकम्
भक्त्या कुर्वन्ति ये संतस्तेषां पुण्यं न वेद्यहम्