पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम्
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम्
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम्
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः
सर्वपापक्षयकरी सर्वोपद्र वनाशिनी
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान्
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम्
सो ऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान्
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत्
सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम
महद्विमानमारुढाः प्रयान्ति परमं पदम्
सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै
पुण्यक्षेत्रेषु सर्वेषौ स्थितवान्नात्र संशयः
मदङ्गस्पर्शेमात्रेण देवानामाधपो भवेत्
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम्
अत्यन्तदुर्ल्लभा नॄणां भक्तिर्द्धर्मप्रवक्तरि
मूलोद्भवां भक्तियुतो मनुष्यो धृत्वा शिरस्येति पदं च विष्णोः
वाञ्च्छत्यपि च यो ह्येवं सो ऽपि विष्णुपदं व्रजेत्
न शक्यते विष्णुनापि किमन्यैर्बहुभाषितैः
यतो वै नरकं यान्ति गङ्गानात्रि स्थिते ऽपि हि
तथा तुलस्या भक्तिश्च हरिकीर्तिप्रवक्तरि
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
सर्वपापविनिर्मुक्तः सूर्यलोकं समेति हि
मेषतौलिमृगाकर्षु पावयत्यखिलं जगत्
तुङ्गभद्रा च कावेरी कालिंन्दी बाहुदा तथा