नरनरायणस्थानमुत्तङ्को ऽपि ततो ययौ
हरिभक्तिः परा प्रोक्ता सर्वकामपलप्रदा
पूजयन्माधयवं नित्यं नरनारायणाश्रमे
आवाप दुरवापं वै तद्विष्णोः परमं पदम्
नारायणो जगन्नाथो भक्तानां मानवर्द्धनः
इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः
सो ऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम्
शृण्वतां वदतां चैव तद्भक्तानां विशेषतः
नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः
स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः
समुद्धरति गोविन्दो दुस्तराद्भव सागरात्
चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः
येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा
वदतां शृण्वतां चैव सर्वपाप प्रणाशनम्
जयध्वज इति ख्यातो नारायणपरायणः
दीपदानरतश्चैव सर्वभूतदयापरः
विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम्
दीपदानपरश्चैव विशेषेण हरिप्रियः
परिप्रणामनिरतो हरिभक्तजनप्रियः
जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः
अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः
विष्णुभक्तिमतां पुंसां श्रेष्ठो ऽसि भरतर्षभ
तन्मे वद महाभाग किं त्वया विदितं फलम्
संयुक्तो ऽसि सदा भद्रयद्विष्णोर्गृहमार्जने
तथापि किं महाभाग एतयोः सततोद्यतः
तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत्
विनयावनतो भूत्वा प्रोवाचेजं कृताञ्जलिः
जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम्