दृष्ट्वा नानाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले
मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा
वरं वृणुष्व वत्सेति प्रोवाच मुनिपुङ्गवम्
पुनः प्रणम्य तं प्राह देवदेवं जनार्द्दनम्
त्वयि भक्तिर्दृढा मे ऽस्तु जन्मजन्मान्तरेष्वपि
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः पिशाचमनुजेष्वपि यत्र तत्रजजातस्य मे भवतु केशव ते प्रसाद्दात्त्वय्येव भक्तिरचलाव्यभिचारणी च
एवमस्त्विति लोकेशः शङ्खप्रान्तेन संस्पृशन् दिव्यज्ञानं ददौ तस्मै योगिनामपिदुर्लमभघम्
पुः स्तुवन्तं विप्रेन्द्रं देवदेवो जनार्द्दनः इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन्
नरनारायणस्थानं व्रज मोक्षं गमिष्यसि
सर्वान्कामानवाप्यान्ते मोक्षभागी भवेत्ततः
नरनरायणस्थानमुत्तङ्को ऽपि ततो ययौ
हरिभक्तिः परा प्रोक्ता सर्वकामपलप्रदा
पूजयन्माधयवं नित्यं नरनारायणाश्रमे
आवाप दुरवापं वै तद्विष्णोः परमं पदम्
नारायणो जगन्नाथो भक्तानां मानवर्द्धनः
इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः
सो ऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम्
शृण्वतां वदतां चैव तद्भक्तानां विशेषतः
नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः
स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः
समुद्धरति गोविन्दो दुस्तराद्भव सागरात्
चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः
येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा
वदतां शृण्वतां चैव सर्वपाप प्रणाशनम्
जयध्वज इति ख्यातो नारायणपरायणः
दीपदानरतश्चैव सर्वभूतदयापरः
विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम्
दीपदानपरश्चैव विशेषेण हरिप्रियः