अप्रमेयमनादारमाधाराधेयरूपकम्
हृद्गुहानिलयं देवं योगिभिः परिसेवितम्
नादात्मकं नादबीजं प्रणवात्मकमव्ययम्
अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम्
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः
विद्याविद्यात्मकं प्राहुः परात्परतरं तथा
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती
नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयः
यन्नाम दुष्कर्मनिवारणायचय तमप्रमेयं पुरुषं भजामि
तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रष्ठतरं भजे
परं च विद्याविद्याभ्यां हृदंबुजनिवासिनम्
अणोरणीयांसमजं सर्वोपाधिविवर्जितम्
विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः
पूज्यात्पूज्यतरं शान्तं गतो ऽस्मि शरणं प्रभुम्
सर्वस्मादधिकं नित्यं नतो ऽस्मि विभुमव्ययम्
अविद्याकार्य रहितः परमात्मेति गीयते
वरं वरेण्यमजनं प्रणतो ऽस्मि परात्परम्
ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे
सूर्येदुवत्प्रोज्ज्वलने त्रमिन्द्रं रवगस्वरुपं वपतिस्वरूपम्
तंवाङ्मनो ऽचिन्त्यमनन्तशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि
यः पाति लोकान्परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये
समस्तयज्ञैः परिजुष्टमाद्यं नतो ऽस्मि तुष्टिप्रदमुग्रवीर्यम्
गुणप्रियं कामदमस्तसंगमतीन्द्रियं विश्वभघुजं वितृष्णम्
विज्ञानभेदं प्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि
जानन्ति देवा कमलोद्भवाद्यस्तोष्याम्यहं तं कथमात्मरूपम्
दयांबुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये
प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः
किरीटिनं कुण्डलिनं हारकेयूरभूषितम्
नासाविन्यस्तमुक्ता भवर्धमानतनुच्छविम्
तुलसीकोमलदलैरर्चिताङ्घ्निं महाद्युतिम्