विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात्
तथैव सर्वपापानि विनष्टान्यतिवेगतः
प्रापितो ऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम्
तस्मान्नतो ऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः
अप्सरोगणसंकीर्णः प्रपेदे हरिमन्दिरम्
शिरस्यञ्जलिमाधाय तुष्टाव कमलापतिम्
वरेण तेनोक्तङ्को ऽपि प्रपेदे परमं पदम्
उक्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम्
पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः
चक्राब्जशार्ङ्गीसिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये
यत्क्रोधजो हॄन्ति जगञ्च रुद्रस्तमादिदेवं प्रणतो ऽस्मि विष्णुम्
वेदान्तवेद्यं पुकुषं पुराणं तैजोनिधिं विष्णुमहं प्रपन्नः
ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिस प्रष्टिरुपः
नित्यः प्रपन्नार्ति हरः परात्मा दयांबुधिर्मे वरदस्तु भघूयात्
त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन्
निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञम्
तथैव सर्वेष्वर एक एव प्रदृश्यते भिन्न इवारिवलात्मा
त एव मायारहितास्तदेव पसअयन्ति सर्वात्मकमात्मरुपम्
समस्तमेतदुद्भूतं यतो यत्र प्रतिष्टितम्
अप्रमेयमनादारमाधाराधेयरूपकम्
हृद्गुहानिलयं देवं योगिभिः परिसेवितम्
नादात्मकं नादबीजं प्रणवात्मकमव्ययम्
अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम्
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः
विद्याविद्यात्मकं प्राहुः परात्परतरं तथा
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती
नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयो ऽपि नतो ऽस्मि भूयः
यन्नाम दुष्कर्मनिवारणायचय तमप्रमेयं पुरुषं भजामि
तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रष्ठतरं भजे