धर्माधर्मौं सहैवास्तामिहामुत्र न चापरः
मृतमग्निमुखे हुत्वा घृतान्नं भुञ्जते हि ते
धर्माधर्मौं न च धनं न पुत्रा न च बान्धवाः
कामः संक्षयमायाति नराणां पुण्यकर्मणाम्
वृथैव व्याकुला लोका धनादानां सदार्जने
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित्
तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः
लोकस्तु तत्र विज्ञाय वृथायासं करोति हि
महापापानि कृत्वापि परान्पुष्यान्ति यत्नतः
स्वयमेकतमो मूढस्तत्पापफलमश्नुते
गुलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः
गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत्
तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात्
कथं मे निष्कृतिर् भूयो यामि कं शरणं विभोः
अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम्
प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा
कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा
अन्तस्तापाग्निसंतप्तः सद्यः पञ्चत्वमागतः
विष्णुपादोदकेनैवमभ्यषिञ्चन्महामतिः
दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत्
विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात्
तथैव सर्वपापानि विनष्टान्यतिवेगतः
प्रापितो ऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम्
तस्मान्नतो ऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः
अप्सरोगणसंकीर्णः प्रपेदे हरिमन्दिरम्
शिरस्यञ्जलिमाधाय तुष्टाव कमलापतिम्
वरेण तेनोक्तङ्को ऽपि प्रपेदे परमं पदम्
उक्तङ्कः पुण्यपुरुषः कीदृशं लब्धवान्वरम्
पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः