एकादर्शीव्रतरता वै भागवतोत्तमाः
मदर्थं कर्ंमकर्त्तारस्ते वै भागवतोत्तमाः
मयापि गदितुं शक्या नाब्दकोटिशतैरपि
सर्वभूताश्रयो दान्तो मेत्रो धर्ंमपरायणः
मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि
दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत
चचार परमं धर्ममीजे च विधिवन्मखैः
ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान्
ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम्
भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि
पुनः पप्रच्छ सनकं ज्ञानविज्ञानपारगम्
परया दयया तथवं ब्रूहिं शास्त्रार्थपारग
दुःस्वन्पनाशनं पुण्यं धर्म्यं पापहरं शुभम्
सर्वरोगप्रशमनमायुर्वर्ध्दनकारणम्
गङ्गायमुनयोर्योगं वदन्ति परमर्षयः
मुनयो मनवश्चैव सेवन्ते पुण्यकाङ्क्षिणः
रविजा यमुना ब्रह्मंस्तयोर्योगः शुभावहः
सर्वपापक्षयकरी सर्वोपद्र वनाशिनी
तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने
तथैव मुनयः सर्वे चक्रश्च विविधान्मखान्
गङ्गाबिन्द्वभिषेकस्य कलां नार्हन्ति षोडशीम्
सो ऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान्
संसेव्या मुनिभिर्देवः किं पुनः पामरैर्जनै
तत्रैव नेत्रं विज्ञेयं विध्यर्द्धाधः समुज्ज्वलत्
सारुप्यदायकं विष्णोः किमस्मात्कथ्यते परम
महद्विमानमारुढाः प्रयान्ति परमं पदम्
सहस्राणि समुद्धृत्य विष्णुलोके व्रजन्ति वै
पुण्यक्षेत्रेषु सर्वेषौ स्थितवान्नात्र संशयः
मदङ्गस्पर्शेमात्रेण देवानामाधपो भवेत्
गङ्गोद्भवा तु मृल्लोकान्नयत्यच्युतरुपताम्