न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः
सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम्
अलङ्कृतं विपणिभिर्ययो देवपुरोपमम्
छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ
जगामाभ्यन्तरं तस्य कीनाशश्चौर्यलोलुपः
परिचर्यापरं विष्णोरुत्तङ्कं तपसां निधिम्
चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने
उत्तङ्कं हॄन्तुमारेभे विधृतासिर्मदोद्धतः
हॄन्तुं कृतमतिं व्याधमुत्तङ्कः प्रेक्ष्य चाब्रवीत्
मया किमपराद्धं ते तद्वदस्व महामत्ते
नहि सौम्य वृथा घ्नन्ति सज्जना अपि पापिनः
विरोधं नहि कुर्वन्ति सज्जनाः शान्तचेतसः
तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा
छेदे ऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य
सर्वसंगविहीनो ऽपि बाध्यते हि दुरात्मना
तत्रापि साधून्बाधन्ते न समानान्कदाचन
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति
पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत्
अन्ते तत्सर्वमुत्सृज्य एक एव प्रयति वै
ममेदमिति जन्तूनां ममता बाधते वृथा
धर्माधर्मौं सहैवास्तामिहामुत्र न चापरः
मृतमग्निमुखे हुत्वा घृतान्नं भुञ्जते हि ते
धर्माधर्मौं न च धनं न पुत्रा न च बान्धवाः
कामः संक्षयमायाति नराणां पुण्यकर्मणाम्
वृथैव व्याकुला लोका धनादानां सदार्जने
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित्
तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः
लोकस्तु तत्र विज्ञाय वृथायासं करोति हि
महापापानि कृत्वापि परान्पुष्यान्ति यत्नतः
स्वयमेकतमो मूढस्तत्पापफलमश्नुते