स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः
सर्वसंपत्समोपेतो हरिभक्तिपरायणः
तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम्
उपलेपनमाहात्म्यं कथितं ते मुनीश्वर
अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते
हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत्
हरिभक्तिपराणां तु संगिनां संगमात्रतः
हरिपूजापराणां च हरिनामरतात्मनाम्
शुश्रूषानिरता यान्ति पापिनो ऽपि परां गतिम्
कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम्
एकमेव हरेर्नाम सर्वपापप्रणाशनम्
श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम्
श्मशानसदृशं तद्धि कदाचिदपि नो विशेत्
गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः
समर्चयति गोविन्दं तत्पूजा विफला भवेत्
सा पूजैव महाभाग पूजकानाशु हॄन्ति वै
तमेव विष्मुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः
धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः
दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत्
क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम्
चण्डाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः
हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी
विष्णोरुपासनं कुर्यात्सो ऽक्षयं सुखमश्नुते
स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत्
सर्वदुःखोपशमनं हरिपोदोदक स्मृतम्
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती
पठतां शृण्वतां चैव सर्वपापप्रणाशनम्
परदारपरद्रव्यहरणे सततोद्यतः
हतवान्ब्राह्मणान् गाश्च शतशो ऽथ सहस्रशः
उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः