वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि
उपायं तव वक्ष्यामस्तं निबोध महामते
दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः
तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये
बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः
तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने
अवापतुर्भृशं प्रीतिं समालिङ्ग्य परस्परम्
गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मतुः
यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ
तत्रैव ज्ञानसंपन्नः परं मोक्षमुपागतः
स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः
सर्वसंपत्समोपेतो हरिभक्तिपरायणः
तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम्
उपलेपनमाहात्म्यं कथितं ते मुनीश्वर
अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते
हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत्
हरिभक्तिपराणां तु संगिनां संगमात्रतः
हरिपूजापराणां च हरिनामरतात्मनाम्
शुश्रूषानिरता यान्ति पापिनो ऽपि परां गतिम्
कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम्
एकमेव हरेर्नाम सर्वपापप्रणाशनम्
श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम्
श्मशानसदृशं तद्धि कदाचिदपि नो विशेत्
गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः
समर्चयति गोविन्दं तत्पूजा विफला भवेत्
सा पूजैव महाभाग पूजकानाशु हॄन्ति वै
तमेव विष्मुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः
धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः
दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत्
क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम्