कामधेन्वा पुष्यमाणश्चित्राभरणभूषितः
गच्छन्विष्णुपदं दिव्यंमनुजं पथि दृष्टवान्
इतस्ततः प्राधावन्तं विलपन्तमनाथवत्
क्रोशन्तं च सुदन्तं च दृष्ट्वा मनसि विव्यथे
को ऽयं भटैर्बाध्यमानं इत्यपृच्छत्कृताञ्जलिः
असौ सुमाली भ्राता ते पापात्मेति समब्रुवन्
मनसा दुःखमापन्नः पुनः पप्रच्छ नारद
तदुपायंबदध्वं मे यूयं हि ममबान्धवाः
सतां साप्तपदी मैत्री सत्सतां त्रिपदी तथा
सत्सतामपि ये संतस्तेषां मैत्रघी पदे पदे
यतो ऽयं मम भ्रातापि मुच्यते तदिहोच्यताम्
पुनः स्मितामुखाः प्रोचुर्यज्ञमालिहरिप्रियम्
उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम्
प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः
त्वया कृतानि पापानि अहन्त्यगणितानि वै
एकदा बन्धुभिस्त्यक्तः शोकसंतापपीडितः
तदा वृष्टिरभूत्तत्र तत्स्थानं पङ्किलं ह्यभूत
उपलेपनतां प्राप्तं तत्स्थानं विष्णुमन्दिरे
दंशितश्चैव सर्पेण प्राप्तं पञ्चत्वमेव च
विप्रजन्म त्वया प्राप्तं हरि भक्तिस्तथाचला
वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि
उपायं तव वक्ष्यामस्तं निबोध महामते
दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः
तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये
बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः
तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने
अवापतुर्भृशं प्रीतिं समालिङ्ग्य परस्परम्
गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मतुः
यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ
तत्रैव ज्ञानसंपन्नः परं मोक्षमुपागतः