परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत्
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम्
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान्
गुरुं प्रणम्य जानन्ति सदा ध्यानपरो ऽभवत्
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान्
स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात्
यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत
धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा
अपादाना दिभिश्चैव नाशयामास भो द्विज
वेश्याविभ्रमलुब्धो ऽसौ परदारतो ऽभवत्
अपहृत्य परं द्रव्यं वारस्त्रीनिरतो ऽभवत्
बभूव दुःखितो ऽत्यर्थं भ्रातरं चेदमब्रवीत्
त्वमेक एव दुष्टात्मा महापापरतो ऽभवः
हनिष्यामीति निश्चित्य खड्गहस्तः कचे ऽग्रहीत्
बबन्धुर्नागराश्चैनं कुपितास्ते सुमालिनम्
बन्धनान्मोचयामास भ्रातृस्नेहविमोहितः
आददे स्वयमर्द्धं च ददावर्द्धं यवीयसे
मूर्खैः पारंवडचण्डालैर्बुभुजे च सहोद्धतः
पिचुमन्दः फलाढ्यो ऽपि काकैरेवोपभुज्यते
मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयत्
राज्ञापि बाधितो विप्रप्रपेदे निर्जनं वनम्
अवारितं ददावन्नं सत्सङ्गगतकल्मषः
अपालयत्प्रयत्नेन सदा धर्मपरायणः
सत्पात्रदाननिष्टस्य धर्ममार्गप्रवर्तिनः
कल्पवृक्षफलं सर्वममरैरेव भुज्यते
नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरो ऽभवत्
यज्ञमाली सुमाली च ह्येककाले मृतावुभौ
हरिः संप्रेषयामास विमानं पार्षदा वृतम्
पूज्यमानः सुरगणैः स्तूयमानो मुनीश्वरैः