त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम्
पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः
पूजयस्व जगन्नाथं नारायणमकां मतः
अग्रेश्च विधिवद्वप्र परिचर्यापरो भव
तथोपलेपनं चैव कुरुष्व सुसमाहितः
मार्गशोभां च दीपं च विष्णोरायतने कुरु
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा
वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम्
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान्
को ऽहं मम क्रिया केति स्वयमेव व्यक्तिन्तयत्
एवं विचारणपरोः दिवानिशमतन्द्रितः
पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह
को ऽहं मम क्रिया का च मम जन्म कथं वद
अविद्यानिलर्य चित्तं कथं सद्भावगगमेष्यति
अहॄङ्कारो मनोधर्म आत्मनो नहि पण्डित
मम जात्यादि शून्यस्य कथं नाम करोम्यहम्
नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम्
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया
अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते
परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत्
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम्
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान्
गुरुं प्रणम्य जानन्ति सदा ध्यानपरो ऽभवत्
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान्
स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात्
यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत
धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा
अपादाना दिभिश्चैव नाशयामास भो द्विज