अवमानादिकं दुःखं न जानन्ति कदाप्यहो
शरीरमपि जीर्णं च जरसापहतं बलम्
एवं निश्चित्य विप्रेन्द्र धर्ममार्ग रतो ऽभवत्
स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत्
स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा
अन्नादीनां च दानानि गङ्गातीरे चकार सः
नारनारायण स्थानं जगाम तपसे वनम्
फलितैः पुषअपितैश्चैव शोभितं वृक्षसंचयैः
परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम्
गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह
शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम्
कन्दमूलफलाद्यैस्तु नारायणधिया मुने
विनयावनतो भूत्वा प्रोवाच वदतां वरम्
मामुद्धर महाभाग ज्ञानदानेन पण्डित
प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम्
प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम्
परापवादं पैशुन्यं कदाचिदपि मा कृथाः
हरिपूजापरश्चैव त्यज मूर्खसमागमम्
परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि
द्रंभाचारमहॄङ्कारं नैष्ठुर्यं च परित्यज
त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम्
पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः
पूजयस्व जगन्नाथं नारायणमकां मतः
अग्रेश्च विधिवद्वप्र परिचर्यापरो भव
तथोपलेपनं चैव कुरुष्व सुसमाहितः
मार्गशोभां च दीपं च विष्णोरायतने कुरु
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा
वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम्
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान्