हरि भक्ति युता दैवी तद्धीना ह्यासुरी महा
श्रेष्ठाः सर्वत्र विख्याता यतो भक्तिः सुदुर्लभा
कामादिरहिता ये च तेषां तुष्यति केशवः
सत्पात्रदाननिरताः प्रयान्ति परमं पदम्
पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति
यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम्
यजन्ति कर्मयोगेन सर्वधातारमच्युतम्
अजरामरवन्मूढास्तिष्टन्ति नरकीटकाः
न यजन्ति जगन्नाथं सर्वश्रैयोविधायकम्
दैवात्के ऽपीह जायन्ते लोकानुग्रहतत्पराः
स याति परमं स्थानं सर्वलोकोत्तमोत्तमम्
पठतां शृण्वतां चैव सर्वपापप्रणाशनम्
यस्य श्रवणमात्रेण वाचिमेध फलं लभेत्
वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः
पुत्रमित्रकलत्रार्थं धनार्जनपरो ऽभवत्
चण्डालाद्यैरपि तथा संभषी तत्प्रतिग्रही
परार्थं तीर्थगमनं कलत्रार्थमकारयत्
यज्ञमाली सुमाली च यमलावतिशोभनौ
पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा
स्वधनं गणयामास कियत्स्यादिति वेदितुम्
विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिन्तया
मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम्
मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वाञ्छति
सर्वान्कामानवांप्नोति पुनरन्यञ्च काङ्क्षति
चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते
बलं हतं च जरसा तृष्णा तरुणतां गता
सुशान्तो ऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः
तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम्
तथैव सत्कुले जन्म आशा हत्यतिवेगतः
किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः