तथैव हरिणा व्यात्पं विश्वमेतच्चराचरम्
उभे ते निकटे विद्धि तन्नाशो हरिसेवया
संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत्
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः
हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते
नीयमानो यमभटैरशक्तो धर्मसाधनैः
तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति
मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत्
विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम्
दम्भाचारं परित्यज्यं वासुदेवं समर्चयेत्
विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम्
धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत्
यशः क्षयकरः कामस्तस्मात्तं परिवर्जयेत्
नरकाणां साधनं च तस्मात्तदपि संत्यजेत्
तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत्
विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः
संसारसागरे मग्नाः कथं पारं प्रयान्ति हि
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्
इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः
यत्प्राभावं न जानन्ति तं याहि शरणं मुने
हृत्पद्मसंस्थितं विष्णुं न विजानन्ति नारद
हरिः श्रद्धावतां तुष्येन्न धनैर्न च बान्धवैः
विष्णुभघक्तिमतां नॄणां भवेज्जन्मनि जन्मनि
एतद्विदित्वा सततं पूजनीयो जनार्द्दनः
हरिपूजारतानां तु भवत्येन न संशयः
इहामुत्रासुखप्रेप्सुः परनिन्दापरो भवेत्
सत्पात्रदानशून्यं यत्तद्धनं धिक्पुनः पुनः
पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम
चौर्येण रक्षितमिव विद्धि लोकेषु निश्चितम्
नाराधयन्ति विश्वेशं पशुपाशविमोचकम्