देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम्
भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम्
संभ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते
भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम्
मूर्खः को ऽस्ति परस्तस्माज्जडबुद्धिरचेतनः
तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति
कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः
विष्णुभक्तिविहीनश्च द्विजो ऽपि श्वपचाधमः
यस्मिंस्तुष्टे ऽखिलं तुष्येद्यतः सर्वगतो हरिः
तथःआ चराचरं विश्वं विष्णाविव प्रलीयते
तथैव हरिणा व्यात्पं विश्वमेतच्चराचरम्
उभे ते निकटे विद्धि तन्नाशो हरिसेवया
संसारपाशविच्छेदीकस्तं न प्रतिपूजयेत्
यं समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः
हरिनाम्नि स्थिते लोकः संसारे परिवर्त्तते
नीयमानो यमभटैरशक्तो धर्मसाधनैः
तावदेवार्चयेद्विष्णुं यदि मुक्तिमभीप्सति
मृत्युः संनिहितो भूयात्तस्माद्धर्मपरो भवेत्
विनश्वरं समाज्ञाय धर्मं नैवाचरत्ययम्
दम्भाचारं परित्यज्यं वासुदेवं समर्चयेत्
विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथानृतम्
धर्मक्षयकरः क्रोधस्तस्मात्तं परिवर्जयेत्
यशः क्षयकरः कामस्तस्मात्तं परिवर्जयेत्
नरकाणां साधनं च तस्मात्तदपि संत्यजेत्
तस्मात्तदभिसंयोज्य परात्मनि सुखी भवेत्
विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः
संसारसागरे मग्नाः कथं पारं प्रयान्ति हि
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्
इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः
यत्प्राभावं न जानन्ति तं याहि शरणं मुने