निर्देष्टुं मुनिशार्दूल द्रष्टुं वाप्यकृतात्मभिः
जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः
स्वपन्निच्युच्यते ह्यात्मा यदा स्वापविवर्जितः
अस्वरुपो यदात्मासौ पुण्यापुण्यविवर्जितः
परब्रह्ममयो देवः सुषुत्प इति गीयते
विद्युद्विलोलं विप्रेन्द्र भघज तस्माज्जनार्दनम्
वर्तते यस्य तस्यैव तुष्यते जगतां पतिः
तस्य तुष्टो जगन्नाथो मधुकैटभमर्द्दनः
सत्सङ्गो निरहं कारस्तस्य प्रीतो रमापतिः
करोति सततं यस्तु तस्य प्रीतो ह्यधोक्षजः
तस्यास्तुष्टो जगन्नाथो ददाति स्वपदं मुने
देवपूजापराश्चैव तेषां तुष्यति केशवः
मा कुरुष्व ह्यहङ्कारं विद्युल्लोलश्रिया वृथा
राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः
हतं च भोजनाद्यैश्च कियदायुः समाहृतम्
कियद्विषयभोगैश्च कदा धर्मान्करिष्यति
वयस्येव ततो धर्मान्कुरु त्वमनहङ्कृतः
वरुर्विनाशनिलयमापदां परमं पदम्
किमर्थं शाश्वतधिया कुर्यात्पापं नरो वृथा
विश्वासो नात्र कर्त्तव्यो निश्चितं मृत्युसंकुले
देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम्
भजस्व सततं विष्णुं मानुष्यमतिदुर्लभम्
संभ्रान्तस्य तु मानुष्यं कथञ्चित्परिलभ्यते
भोगबुद्धिस्तथा नॄणां जन्मान्तरतपः फलम्
मूर्खः को ऽस्ति परस्तस्माज्जडबुद्धिरचेतनः
तेषामतीव मूर्खाणां विवेकः कुत्र तिष्ठति
कस्तं न पूजयेद्विप्रसंसाराप्रिप्रदीपितः
विष्णुभक्तिविहीनश्च द्विजो ऽपि श्वपचाधमः
यस्मिंस्तुष्टे ऽखिलं तुष्येद्यतः सर्वगतो हरिः
तथःआ चराचरं विश्वं विष्णाविव प्रलीयते