विभात्यज्ञाननाशे तु यथापूर्वं व्यवस्थितम्
तन्नाशे निर्मलं ब्रह्म प्रकाशयति पण्डितं
सर्वेषामेव भूतानामन्तर्यामितया स्थितम्
पश्यन्ति यज्ज्ञानविदां वरिष्टाः परात्परस्मात्परमं पवित्रम्
पुराणपुरुषो ऽनादिः शब्दब्रह्मेति गीयते
आनन्दं निर्मलशान्तं परं ब्रह्मेति गीयते
अविकारमजं शुद्धं परं ब्रह्मेति गीयते
संसारतापतत्पानां सुधावृष्टिसमं नृणाम्
नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम्
मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम्
तेषां समुच्चयं विप्र परब्रह्मप्रबोधकम्
वाच्यवाचकसंबन्धो ह्युपचारात्तयोर्द्विजा
तदभ्यासेन संयुक्ताः परं मोक्षं लभन्ति च
कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम्
यद्यत्पापहरं वस्तु तत्तद्वा चिन्तयेद्धृदि
एतद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम्
स सर्वपापनिर्मुक्तो हरिसालोक्यमान्पुयात्
इदानीमपि सर्वज्ञ यत्पृच्छामि तदुच्यताम्
यस्य तुष्यति सर्वेशस्तस्य भक्तिश्च शाश्वतम्
तन्ममाख्याहि सर्वज्ञ मुने कारुण्यवारिधे
भज सर्वात्मना विप्र यदि मुक्तिमभीप्ससि
राक्षसाश्च न चेक्षन्ते नरं विष्णुपरायणम्
श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तो ऽधिकास्ततः
तौ करौ लफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ
सा जिह्वा प्रोच्यते सद्भिर्हरिनामपरा तु या
तत्त्वं गुरुसमं नारित नत देवः केशवात्परः
असारे ऽस्मिंस्त संसारे सत्यं हरिसमर्चनम्
हरिभक्तिकुटारेण च्छित्त्वात्यन्तसुखी भव
ते श्रोत्रे तत्कथासारपूरिते लोकवन्दिते
आकाशमध्यगं देवं भज नारद संततम्